निखिलप्रपञ्चेऽस्मिन् प्राणभृतः सर्वेऽपि जन्तवः दुःखनिवृत्तये सुखप्राप्तये च यतन्ते । तत्रापि मानवः बुद्धिसम्पन्नः सुखप्राप्तिमार्गान्वेषणे नितरां निरत इत्यत्र नास्ति संशयलेशः। किन्तु केचन क्षणिकं सुखमेव सुखमिति संभ्रान्ताः सन्तः स्रक्चन्दनवनितावित्तादिषु रक्ताः चित्तकालुष्यं प्राप्नुवन्ति धर्ममार्गं परित्यजन्ति च । क्षणे नष्टे क्षणिकमपि सुखं नष्टं भवति । एवं च पुनः दुःखसागरे निमज्जन्ति । तर्हि नित्यं शाश्वतं सुखं कुत्र वा लभ्यते ? इति चेत् केवलेन तत्वज्ञानेन आत्यन्तिकं सुखं लभ्यते । तत् सुखमेव " मोक्षः" इति शब्देन जेगीयते विबुधैः। तर्हि तादृशो मोक्षः कथं प्राप्तव्य इति श्रुतिषु बहुधा परामर्शः कृतः । श्रुतिबोधिताद्वैततत्वज्ञानादेव मोक्षः प्राप्यते । किन्तु श्रुतिः येषां कफ़ोणिगुडायते तेषां स्मृतिः मार्गदर्शिका भवति । श्रुत्यनुसारिण्यः स्मृतयः परम्परया मोक्षसाधिकाः भवन्ति । मनुयाज्ञवल्क्यादिस्मृतयः धर्ममार्गं कर्मनियमं च उपदिश्य कर्मणि अस्मान् प्रेरयन्ति । तेन कर्मणा चित्तशुद्धिः भवति । शुद्धे चित्ते एव अद्वितीयं ब्रह्मज्ञानं प्रकाशते; यथा प्रसन्ने जले चन्द्रबिम्बः ।
श्रुतिस्तु कर्म, ब्रह्म च प्रतिपदयति । किन्तु श्रुतेः तात्पर्यं तु अद्वितीयब्रह्मज्ञाने एव । एवं स्मृतयः अपि काश्चन कर्मप्रतिपादयन्ति अन्याः ज्ञानमिति निश्चप्रचम् । किन्तु कर्मप्रतिपादिकानां स्मृतीनामपि कर्मप्रतिपादकश्रुतिवदद्वितीये ब्रह्मणि एव तात्पर्यमिति अनेन शोधप्रबन्धेन प्रदर्श्यते । श्रुतीनां तात्पर्यमद्वितीये ब्रह्मणि एव साक्षात् विद्यमाने सति किमर्थं पुनः स्मृतीनां अवश्यकतेति शङ्काऽपि सञ्जायेत । स्मृतीनाम् आवश्यकतातु विद्यत एव । किन्तु अव्युत्पन्नमतीनां सुखबोधाय स्पष्टार्थप्रतिपत्तये, श्रुत्यर्थस्य पुष्टये च ।
एवं मनुस्मृतिः पराशरस्मृतिः याज्ञवल्क्यस्मृतिः एवमष्टादश स्मृतयः अपि श्रुत्यनुसारिण्यः परमार्थतया अद्वितीयं ब्रह्म एव बोधयन्ति । स्मृतीनां साक्षात् कर्मणि एव तात्पर्यमिति केचन वदेयुः । किन्तु कर्म एव संसारस्य कारणं, संसारः दुःखस्य कारणम् एवं स्मृतीनां परम्परया दुःखकारणत्वमापद्येत । न तथा परमॠषीणां बोधः आनर्थक्याय। चित्तस्य शुद्धये कर्माणि श्रौतस्मार्तादीनि बोधयन्ति स्मृतयः । अद्वितीयवस्तुतत्वं चित्तशुद्ध्या लभ्यते ।
मेधातिथिव्याख्यानुसारं मनुस्मृतौ अद्वैततत्त्वपरामर्शः
विशेषतः मनु अद्वैतात्मतत्वप्रतिपादकः एव भवति सर्वेषां कर्मणां परमं तात्पर्यम् आत्मतत्वज्ञाने एव प्रदर्शयति भगवान् मनुः -
सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ।
तदग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ इति |
अत्र मेधातिथिव्याख्याने – “सर्वस्य जगतो जन्मादीनां परमात्मैककारणत्वे नित्यस्य सत एकस्याविद्यावासनोपहितनानारूपस्य तिर्यक् – मनुष्यादिष्वेकत्वदर्शनम् । “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य” इति श्रुतिभिरुपदर्शितस्वरूपस्य ज्ञानप्रप्तिरेव मनुष्यजन्मनः साफल्यम्” इति स्पष्टतया आत्मज्ञानं प्राप्तव्यमिति संसूचितम्। अयमर्थः वेदान्तशास्त्रमूलः । तथाहि श्रुति: आत्मज्ञानं वेदाध्ययनादिकर्माणि विधत्ते – “तमेतं वेदानुवचनेन ब्राह्मणाः विविधिशन्ति यज्ञेन दानेन तपसानाशकेन” इति| स्मृतावपि – “सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते” इति | सूत्रकारोपि – “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्” इति स्वोत्पत्तौ ज्ञानं सर्वाणि कर्माणि अपेक्षत इति सूत्रयामास । अयं वेदान्तसिद्धान्तः पूर्वोक्तमनुवाक्ये स्फुटं दर्शितः ।
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥
योऽसावतीन्द्रियग्राह्यःसूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो ध्यानात् तद्दण्डमकरोद्विधा ॥ इति |
अत्र भगवता मनुना प्रपञ्चकारणं हिरण्यगर्भः स्मारितः । एतदेव श्रुतौ- “हिरण्यगर्भः समवर्तताग्रं भूतस्य जातः पतिरेक आसीत्, सदाधारपृथिविद्यामुतेमङ्कस्मै देवाय हषाविदेम” इत्युक्तम् ।
विज्ञानेश्वरव्याख्यानुसारं यज्ञवल्क्यस्मृतौ अद्वैततत्त्वपरामर्शः
याज्ञवल्क्यस्मृतावपि आत्मनः नित्यत्वं प्रपञ्चकारणत्वादिकं स्पष्टं प्रत्यपादीत् मिताक्षरा ।
निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।
अजः शरीर ग्रहणात्स जात इति कीर्त्यते ॥
इति याज्ञवल्क्यः आत्मनः कर्तृत्वं नित्यत्वं च बोधयति | मिताक्षरव्याख्याने इदमेवं स्पष्टीचकार मिताक्षरकारः । यथा – सत्यमात्मा सकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायि निमित्तमित्येवं स्वयमेव त्रिविधमपि कारणं, न पुनः कार्यकोटिनिविष्टः । यस्मादक्षरोऽविनश्वरः । ननु सत्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात्तद्गुणवत्याः प्रकृतेरेव जागत्कर्तृतोचिता, न पुनर्निर्गुणस्य ब्रह्मणः । मैवं मंस्थाः - आत्मैव कर्ता । नह्यचेतनायाः प्रकृतेर्नामरुपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादि प्रपञ्चरचना घटते । तस्मादात्मैव कर्ता । तथाचात्मा त्रिगुणशक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्यायेनसह विद्यते । अतः स्वतोनिर्गुणोपि शक्तिमुखेन सत्वादिगुणयोगीकथ्यते नचैतावता प्रकृतेः कारणता यस्मादात्मैव वशी स्वतन्त्रः, न प्रकृतिर्नाम स्वतन्त्रं तत्वान्तरम्” । इति |
एवं शारीरकमीमांसायां प्रधानादि अचेतनजगत्कारणम् ईक्षत्यधिकरणे अपाकृतम्। तदेवात्र मिताक्षरायाम् अनूद्यते । अत्र तु आत्मनः त्रिविधमपि कारणत्वं प्रतिपादितम् । पुनरजश्शब्देन आत्मनः उत्पत्तिराहित्यं नित्यत्वं च प्रत्यपीपदत् मिताक्षरकारः ।
जीवात्मपरमात्मनोः भेदाभावं दर्शयन् याज्ञवल्क्यः ब्रूते –
निस्सरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः ।
सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ इति ।
इदमेव एवं विवृणोति मिताक्षरे – “यद्यपि जीवात्मपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्यात्मनः सकाशात् विद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद्युज्यत एव जीवात्म परमात्मनोः भेदव्यपदेशः । यथा हि तप्ताल्लोहपिण्डादयोगोलकाद्विस्फुलिङ्गकास्तेजोवयवाः निस्सरन्ति । निसृताश्च, स्फुलिङ्गव्यपदेशं लभन्ते तद्वत्” ।
No comments:
Post a Comment