Wednesday, October 19, 2011

Manu yajnavalkya sameekshanam


निखिलप्रपञ्चेऽस्मिन् प्राणभृतः सर्वेऽपि जन्तवः दुःखनिवृत्तये सुखप्राप्तये यतन्ते । तत्रापि मानवः बुद्धिसम्पन्नः सुखप्राप्तिमार्गान्वेषणे नितरां निरत इत्यत्र नास्ति संशयलेशः। किन्तु केचन क्षणिकं सुखमेव सुखमिति संभ्रान्ताः सन्तः स्रक्चन्दनवनितावित्तादिषु रक्ताः चित्तकालुष्यं प्राप्नुवन्ति धर्ममार्गं परित्यजन्ति क्षणे नष्टे क्षणिकमपि सुखं नष्टं भवति एवं पुनः दुःखसागरे निमज्जन्ति तर्हि नित्यं शाश्वतं सुखं कुत्र वा लभ्यते ? इति चेत् केवलेन तत्वज्ञानेन आत्यन्तिकं सुखं लभ्यते । तत् सुखमेव " मोक्षः" इति शब्देन जेगीयते विबुधैः। तर्हि तादृशो मोक्षः कथं प्राप्तव्य इति श्रुतिषु बहुधा परामर्शः कृतः श्रुतिबोधिताद्वैततत्वज्ञानादेव मोक्षः प्राप्यते । किन्तु श्रुतिः येषां कफ़ोणिगुडायते तेषां स्मृतिः मार्गदर्शिका भवति श्रुत्यनुसारिण्यः स्मृतयः परम्परया मोक्षसाधिकाः भवन्ति मनुयाज्ञवल्क्यादिस्मृतयः धर्ममार्गं कर्मनियमं उपदिश्य कर्मणि अस्मान् प्रेरयन्ति तेन कर्मणा चित्तशुद्धिः भवति शुद्धे चित्ते एव अद्वितीयं ब्रह्मज्ञानं प्रकाशते; यथा प्रसन्ने जले चन्द्रबिम्बः
         श्रुतिस्तु कर्म, ब्रह्म प्रतिपदयति । किन्तु श्रुतेः तात्पर्यं तु अद्वितीयब्रह्मज्ञाने एव एवं स्मृतयः अपि काश्चन कर्मप्रतिपादयन्ति अन्याः ज्ञानमिति निश्चप्रचम् । किन्तु कर्मप्रतिपादिकानां स्मृतीनामपि कर्मप्रतिपादकश्रुतिवदद्वितीये ब्रह्मणि एव तात्पर्यमिति अनेन शोधप्रबन्धेन प्रदर्श्यते श्रुतीनां तात्पर्यमद्वितीये ब्रह्मणि एव साक्षात् विद्यमाने सति किमर्थं पुनः स्मृतीनां अवश्यकतेति शङ्काऽपि सञ्जायेत स्मृतीनाम् आवश्यकतातु विद्यत एव किन्तु अव्युत्पन्नमतीनां सुखबोधाय स्पष्टार्थप्रतिपत्तये, श्रुत्यर्थस्य पुष्टये
एवं मनुस्मृतिः पराशरस्मृतिः याज्ञवल्क्यस्मृतिः एवमष्टादश स्मृतयः अपि श्रुत्यनुसारिण्यः परमार्थतया अद्वितीयं ब्रह्म एव बोधयन्ति स्मृतीनां साक्षात् कर्मणि एव तात्पर्यमिति केचन वदेयुः   किन्तु कर्म एव संसारस्य कारणं, संसारः दुःखस्य कारणम् एवं स्मृतीनां परम्परया दुःखकारणत्वमापद्येत तथा परमॠषीणां बोधः आनर्थक्याय। चित्तस्य शुद्धये कर्माणि श्रौतस्मार्तादीनि बोधयन्ति स्मृतयः अद्वितीयवस्तुतत्वं चित्तशुद्ध्या लभ्यते

मेधातिथिव्याख्यानुसारं मनुस्मृतौ अद्वैततत्त्वपरामर्शः
विशेषतः मनु अद्वैतात्मतत्वप्रतिपादकः एव भवति सर्वेषां कर्मणां परमं तात्पर्यम् आत्मतत्वज्ञाने एव प्रदर्शयति भगवान् मनुः -
                सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ।
              तदग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥ इति |
अत्र मेधातिथिव्याख्याने – “सर्वस्य जगतो जन्मादीनां परमात्मैककारणत्वे नित्यस्य सत एकस्याविद्यावासनोपहितनानारूपस्य तिर्यक् – मनुष्यादिष्वेकत्वदर्शनम् । “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य” इति श्रुतिभिरुपदर्शितस्वरूपस्य ज्ञानप्रप्तिरेव मनुष्यजन्मनः साफल्यम्”  इति स्पष्टतया आत्मज्ञानं प्राप्तव्यमिति संसूचितम्। अयमर्थः वेदान्तशास्त्रमूलः । तथाहि श्रुति: आत्मज्ञानं वेदाध्ययनादिकर्माणि विधत्ते – “तमेतं वेदानुवचनेन ब्राह्मणाः विविधिशन्ति यज्ञेन दानेन तपसानाशकेन” इति| स्मृतावपि – “सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते” इति | सूत्रकारोपि – “सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्” इति स्वोत्पत्तौ ज्ञानं सर्वाणि कर्माणि अपेक्षत इति सूत्रयामास । अयं वेदान्तसिद्धान्तः पूर्वोक्तमनुवाक्ये स्फुटं दर्शितः ।
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्
               तद्विसृष्टः पुरुषो लोके ब्रह्मेति कीर्त्यते
                योऽसावतीन्द्रियग्राह्यःसूक्ष्मोऽव्यक्तः सनातनः
सर्वभूतमयोऽचिन्त्यः एव स्वयमुद्बभौ
                तस्मिन्नण्डे भगवानुषित्वा परिवत्सरम् ।
             स्वयमेवात्मनो ध्यानात् तद्दण्डमकरोद्विधा इति |
अत्र भगवता मनुना प्रपञ्चकारणं हिरण्यगर्भः स्मारितः । एतदेव श्रुतौ- “हिरण्यगर्भः समवर्तताग्रं भूतस्य जातः पतिरेक आसीत्, सदाधारपृथिविद्यामुतेमङ्कस्मै देवाय हषाविदेम” इत्युक्तम् ।

विज्ञानेश्वरव्याख्यानुसारं यज्ञवल्क्यस्मृतौ अद्वैततत्त्वपरामर्शः
याज्ञवल्क्यस्मृतावपि आत्मनः नित्यत्वं प्रपञ्चकारणत्वादिकं स्पष्टं प्रत्यपादीत् मिताक्षरा ।
                निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।
              अजः शरीर ग्रहणात्स जात इति कीर्त्यते ॥
इति याज्ञवल्क्यः आत्मनः कर्तृत्वं नित्यत्वं च बोधयति | मिताक्षरव्याख्याने इदमेवं स्पष्टीचकार मिताक्षरकारः । यथा – सत्यमात्मा सकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायि निमित्तमित्येवं स्वयमेव त्रिविधमपि कारणं, न पुनः कार्यकोटिनिविष्टः । यस्मादक्षरोऽविनश्वरः । ननु सत्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्यभूते जगत्प्रपञ्चे दर्शनात्तद्गुणवत्याः प्रकृतेरेव जागत्कर्तृतोचिता, न पुनर्निर्गुणस्य ब्रह्मणः । मैवं मंस्थाः - आत्मैव कर्ता । नह्यचेतनायाः प्रकृतेर्नामरुपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादि प्रपञ्चरचना घटते । तस्मादात्मैव कर्ता । तथाचात्मा त्रिगुणशक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्यायेनसह विद्यते । अतः स्वतोनिर्गुणोपि शक्तिमुखेन सत्वादिगुणयोगीकथ्यते नचैतावता प्रकृतेः कारणता यस्मादात्मैव वशी स्वतन्त्रः, न प्रकृतिर्नाम स्वतन्त्रं तत्वान्तरम्” । इति |
एवं शारीरकमीमांसायां प्रधानादि अचेतनजगत्कारणम् ईक्षत्यधिकरणे अपाकृतम्। तदेवात्र मिताक्षरायाम् अनूद्यते । अत्र तु आत्मनः त्रिविधमपि कारणत्वं प्रतिपादितम् । पुनरजश्शब्देन आत्मनः उत्पत्तिराहित्यं नित्यत्वं च प्रत्यपीपदत् मिताक्षरकारः ।
        जीवात्मपरमात्मनोः भेदाभावं दर्शयन् याज्ञवल्क्यः ब्रूते –
                निस्सरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः ।
              सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ इति ।
इदमेव एवं विवृणोति मिताक्षरे – “यद्यपि जीवात्मपरमात्मनोः पारमार्थिको भेदो नास्ति तथाप्यात्मनः सकाशात् विद्योपाधिभेदभिन्नतया जीवात्मानः प्रभवन्ति हि यस्मात् तस्माद्युज्यत एव जीवात्म परमात्मनोः भेदव्यपदेशः । यथा हि तप्ताल्लोहपिण्डादयोगोलकाद्विस्फुलिङ्गकास्तेजोवयवाः निस्सरन्ति । निसृताश्च, स्फुलिङ्गव्यपदेशं लभन्ते तद्वत्” ।

No comments:

Post a Comment